संस्कृतभाषायां सन्देशं निर्मातुं नूतना सुविधा समागता।
कोच्ची> लैव् सान्स्क्रिट् संघेन निर्मिता सान्स्ग्रीट् (SansGreet) इति अन्ट्रोयिड् सुविधा प्लेस्टोर्मध्ये परिष्कृत्य प्रकाशिता। स्वेच्छानुसारं स्वस्य चित्राणि अपि संयुज्य सन्देशचित्रसृजनं शक्यते इति सर्वेषां मोदाय भविष्यति। https://livesanskrit.com/Sansgreet इति प्रविशति चेत् सुविधेयं निशुल्कं लभते। जन्मदिन, विवाहादि शुभसन्दर्भैषु शुभाशंसापत्राणि विनाक्लेशं निर्मातुं शक्यते इति Sansgreet सुविधायां संस्कृतप्रेमिणां प्रियता वर्धनास्य कारणम्।