भारतीयानां प्रवेशनिरोधं सौदी अपि निराकरोति।
जिद्दा> सौदी-अरेबियाराष्ट्रेण भारतीयानां उपरि विहितः यः प्रवेशनिरोधः आसीत्, तं तद्राष्ट्रेण निवार्यते इति सूचना संप्रति आगच्छति। सैद्यायाः वाक्सिनस्य मात्राद्वयमपि स्वीकृत्य स्वदेशं गतवद्भ्यः, तथा च अधिवास-सम्मतिविसापत्र-युक्तेभ्यः एव प्रवेशानुज्ञां लभन्ते। लेबननदेशस्थः सौदी स्थानपतिः वलीद् बुखारिः एव एतद्विषयं न्यवेदयत्। सौदीस्थेन भारतीयकार्यालयेनापि एतत् दृढीकृतम्।