विश्वविद्यालयेषु पुरुषमहिलाछात्राणां सहोपवेशनं निरुध्य तालिबानः।
काबूलः> अफ्गानस्य नियन्त्रणं स्वायत्तीकृत्यानन्तरं तालिबानस्य प्रथमनियमः प्रकाशितः।
सर्वकारीय-निजीय-विश्वविद्यालयेषु पुरुषमहिलाछात्राणाम् एकस्यां कक्ष्यायां मिलित्वा उपविश्य अध्ययनं तालिबानस्य पश्चिमहेरात् मण्डलस्य अधिकारिभिः निरोधितम् । अफ्गानिस्थानस्य खाम नामकैःवार्ताहरै : एव कार्यमिदं प्रतिवेदितम्। विश्वविद्यालयस्य अध्यापकैः तथा निजीयविद्यालयाधिकारिभिः च साकं होरात्रयं चर्चां कृत्वैव नियमाः प्रकाशिताः। बालिकाबालकौ सम्भूय विद्याभ्यासानुवर्तने किमपि नीतीकरणं नास्ति इति एतत्संबन्धि पत्रं प्रतिवेदयति ।