राष्ट्रे कोविड्रोगस्य द्वितीयतरङ्गस्य अतितीव्रकालः समाप्त : इति केन्द्रः ।
नवदिल्ली> भारतस्य अर्धाधिकप्रदेशेषु कोविडस्य रोगस्थिरीकरणमानं प्रतिशतं पञ्चतः अधः एव। १४५ जिल्लासु प्रतिशतं पञ्च आरभ्य प्रतिशतं दश आभ्यन्तरे एव भवति। अतिरिक्तेषु २३९ जिल्लासु प्रतिशतं दश उपरि एव रोगस्थिरीकरणमानम् इति ऐ सि एम् आर् ( Director general) निदेशकमुख्येन डो.बलरामभार्गवेण उक्तम् । लोकस्वास्थ्यसंघटनस्य निर्देशमनुसृत्य एकस्मिन् प्रदेशे अनस्यूततया द्विसप्ताहपर्यन्तं रोगस्थिरीकरणमानं प्रतिशतं पञ्चतः अधः चेत् कोविड्व्यापनं सुस्थिरं भवति इति वक्तुं शक्यते।