केरलेषु अन्तर्जालद्वारा तत्समयसुविधया अध्ययनवर्षस्य समारम्भः।
उत्साहेन पठन्तु इति मुख्यमन्त्री पिणरायि विजयः।
प्रथमदृष्ट्या कार्यविघ्नानां सन्दर्भः अवसराण्येव। एते नूतनलोकनिर्माणस्य प्रारम्भाः भवन्ति। नूतनाध्ययनवर्षेस्य कक्ष्या तत्समय (online) अन्तर्जाल-माध्यमेन इत्यतः न्यूनोत्साहिनः मा भवन्तु इति केरलस्य मुख्यमन्त्रिणा पिणरायि विजयेन निगदितम्। छात्रेभ्यः स्वच्छन्देन आशयविनिमयाय सन्दर्भं कर्तुं सज्जीकरणानि करिष्यन्ति इति विद्यालयीयप्रवेशनोत्सवस्य राज्यस्तरीयोद्घाटनसमारोहे सः न्यवेदयत्। अधुनैव अध्ययनस्य आरम्भः करणीयः। क्रियात्मककार्याणि गृहे करणीयानि। नूतनलोकः छात्राणां लोकः एव। कार्यविघ्नानि नूतनानि अवसराण्येव इति सः छात्रान् अस्मारयत्।