इस्रयेल् - पालस्तीनसंघर्षे हतायाः भारतीयायाः शरीरं स्वेदेशमानयति।
नवदिल्ली> दिनानि यावत् अनुवर्तमाने इस्रयेल् - पालस्तीनयोर्मध्ये जाते व्योमाक्रमणे उपशतं जनाः मृत्युमुपगताः। तेषु एका भारतीया अप्यस्ति। केरलस्थे इटुक्कीजनपदे कीरित्तोट् प्रदेशीया सौम्या नामिका कुजवासरे 'हमास्' संघटनेन इस्रयेलं विरुध्य कृते अग्निबाणाक्रमणे हता आसीत्। इस्रयेलस्थे 'अष्कलोण'नगरे कस्मिंश्चन गृहे परिपालिकारूपेण [Caretaker] प्रवृत्तमाणा आसीत् सौम्या।
सौम्यायाः मृतशरीरं इस्रयेलस्थे भारतस्थानपतिकार्यालयेन स्वीकृतम्। सविशेषेण विमानेन शनिवासरे एव स्वदेशमानेतुं पदक्षेपाः स्वीकृताः इति विदेशकार्यसहमन्त्रिणा वि. मुरलीधरेण प्रोक्तम्।