भारते द्वितीयदिनेSपि कोविड्मरणानि चतुस्सहस्राधिकानि।
नवदिल्ली> गतदिने भारते ४०९२ जनाः कोविड्बाधया मृत्युमुपगताः। अनुस्यूततया द्वितीयदिनमेव मरणसंख्या चतुस्सहस्रमतीयते। रोगबाधितानां संख्या ह्यः ४,०३,७३८ अभवत्। अनुस्यूततया चतूर्थदिनं भवति प्रतिदिनरोगबाधा लक्षचतुष्कमतीयते।
३७,३६,६४८ रोगिणः परिचर्यायां वर्तन्ते। ह्यस्तनमृत्युसंख्या अधिकतया वर्तमानानि राज्यानि- महाराष्ट्रं [८६४], कर्णाटकं [४८२], दिल्ली [३३२], यू पि [२९७], तमिलनाट् [२४१], छत्तीसगढं [२२३] । इतःपर्यन्तं १६, ९४, ३९,६६३ जनाः वाक्सिनीकृताः इति स्वास्थ्यमन्त्रालयेन सूच्यते।