गगासायां संग्रामः स्थगितः। इस्रयेल्-हमासयोर्मध्ये युद्धस्थगनं प्रवृत्तिपथम् आगतम्।
गासानगरम्> इस्रयेल्-पलस्तीन् संधर्षस्य परिसमाप्तिं लक्ष्यीकृत्य युद्धस्थगनव्यवस्था प्रवृर्तिपथमागता। गतैकादशदिन-संघर्षानन्तरं शुक्रवासरे प्रभाते एव युद्धस्थगननिर्णयः प्रवृत्तिपथमागतः। युद्धस्थगने प्रबलमागते तत्क्षणमेव गासायां पलस्तीन् नागरिकाः वीथिषु आह्लादप्रकाशनम् अकुर्वन्। वाहनेषु हॉर्न् नादयित्वा तथा देवालयात् 'कृतस्य प्रतिरोधप्रवर्तनस्य विजयः' इति उद्धोषयित्वा च तैः विजयोत्सवः समारब्धः इति दृश्यते। 'सविशेषविजयो लब्धः' इति इस्रयेल् प्रधानमन्त्रिणा बेञ्चमिन् नेतन्याहुना अभिप्रैतम्। हमासस्य आतङ्कप्रवर्तनानि लोकसमक्षं इदानीं सुव्यक्तान्यभवन् इति तेन आवेदितम्।