प्राणवायोः पुनरावर्तोत्पादनेन द्विगुणीकृतफलं लभ्यमानया
नूतनसुविधया सह भारतीयनाविकसेना।
नवदिल्ली> कोविड्प्रतिरोधप्रवर्तनेषु तथाविधश्रमेषु च नूतन-साङ्केतिकविद्यया सह भारतीयनाविकसेना। प्राणवायोः दुर्भिक्षपरिहाराय एषा साङ्केतिकविद्या सप्रयोजका भवति। प्राणवायोः पुनरावर्तोत्पादनाय सहायकः प्राणवायोः पुनरावर्तोत्पादनरीतिः ( oxigen recycling system) एव वायुसेनया परीक्षणेन सफलीकृता। प्राणवायोः दौर्लभ्यपरिहाराय एषा योग्या भवति। उपसेनानायकः(lieutenant colonel) मायङ्क् शर्मा एव सुविधायाः अस्याः आविष्कर्ता। एषा सुविधा विगते मार्च् मासे अन्तर्वाहिनी-प्रदर्शनकार्यक्रमे प्रधानमन्त्रिणः पुरतः प्रदर्शिता आसीत् इति मायङ्क् शर्मणा उक्तम्। अस्याः आदर्शभूतनिर्माणाय केवलम् अयुतं रूप्यकाणि एव व्ययः। एषा सुविधा प्राणवायुनिभृत-कृशगोलकेषु घटयति चेत् पर्वतारोहकाणां तथा हिमालयप्रान्तीयसैनिकानां च द्विगुणितं प्रयोजनं लप्स्यते इति नाविकसेना व्यजिज्ञपत्।