केरले अतिवृष्टिः, समुद्रविक्षोभः।
कोच्ची> लक्षद्वीपसमुद्रे आविर्भूतस्य न्यूनमर्दस्य प्रभावात् केरले अतिवृष्टिरारब्धा। समुद्रतीरजनपदेषु समुद्रविक्षोभेन शतशः गृहाणि जलोपप्लावितानि भूतानि। तिरुवनंतपुरं, कोल्लम्, आलप्पुष़ा, पत्तनंतिट्टा इत्येतेषु दक्षिणजनपदेषु अद्य रक्तजागरूकता प्रख्यापिता।
श्व आरभ्य न्यूनमर्दः ट्वट्टै नामकचक्रवातरूपेण भविष्यतीति पर्यावरणविभागेन निगदितमस्ति।