'यास्' चक्रवातः रूपीकृतः; ओडीषा पश्चिमवंगतीरेषु अतिजागरूकता।
चक्रवातस्य प्रभावेन ओडीषा पश्चिमवंगराज्ययोः आन्डमान् निक्कोबारद्वीपेषु केरलस्य मध्यदक्षिणभागेषु च अतिवृष्टिः आरब्धा। प्रधानमन्त्रिणः गृहमंत्रिणः च नेतृत्वे चक्रवातभीषाविधेयानां राज्यानाम् अधिकारिभिः सह चर्चां कृत्वा रक्षोपायपदक्षेपाः स्वीकृताः।