१८ वयोपर्यन्तेभ्यः अपि वाक्सिनम्।
नवदिल्ली> भारते १८ वयोपरि ४५ वयस्केभ्यः युवकेभ्य अपि कोविड्वाक्सिनसुविधां निर्णीय केन्द्रसर्वकारेण स्वीयवाक्सिननये समग्रं परिष्करणं कृतम्। गतदिने प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे समायोजिते उपवेशने एवायं निर्णयः कृतः। मेय्मासस्य प्रथमदिनादारभ्य युवकेभ्यः वाक्सिनीकरणसुविधा लप्स्यते।
परिष्कृतमार्गनियमान् अनुसृत्य सामान्यविपण्यामपि वोक्सिनौषधं लप्स्यते। मूल्यविषये निर्णयः करणीयः। उत्पाद्यमानानाम् औषधानामर्धभागः केन्द्रसर्वकाराय राज्यसर्वकारेभ्यश्च वितरणं करणीयम्।