सौदि अरेब्या राष्ट्रे रामायणं महाभारतं च पाठ्यविषयः भविष्यति।
रियाद्> भारतस्य इतिहासौ सौदि अरेब्यराष्ट्रस्य शिक्षा प्रणाल्याम् अन्तर्भविष्यति। राजकुमारस्य मुहम्मद् बिन् सल्मानस्य नूतन-शिक्षायोजनया संबध्य भवति अयं निर्णयः। Vision 2030 इत्यस्ति योजनायाः नाम। विविधराष्ट्रान् , राष्ट्राणां चरितं संस्कृतिं च अधिकृत्य नूतनानां नागरिकाणां ज्ञानवर्धनम् उद्दिश्य भवति अयं योजना। योगः आयुर्वेदः च पाठ्यक्रमे भविष्यतः इति अनुमीयते। सौदीजनाः निर्णयमङ्गीकृत्य तेषां तोषः प्रकाशितवन्तः अस्ति।