७५ तम स्वतन्त्रतादिन-महोत्सवाय भारतसर्वकारः।
नवदिल्ली> ७५ तम स्वतन्त्रतादिन-महोत्सवाय भारतसर्वकारेण समालोच्य ते। प्रधानमन्त्रिणः नरेन्द्रमोदिनः आध्यक्ष्ये २५९ अङ्ग समितिः रूपीकृता। एक संवत्सरपर्यन्तं दीर्घितः महोत्सवः एव सर्वकारेण उद्दिश्यते। केन्द्रमन्त्रिणः सहमन्त्रिणश्च समित्याम् अन्तर्भवन्ति। विपक्षदलनेतारः भूतपूर्व राष्ट्रपतयः प्रधानमन्त्रिणः च समित्याम् अङ्गत्वेन सन्ति।