2050 संवत्सरे समागते 25% जनेभ्यः श्रवणवैकल्यः भविष्यति इति विश्वस्वास्थ्यसंघटनम्
समागतेषु संवत्सरेषु श्रवणवैकल्यः भविष्यति इति विश्वस्वास्थ्यसङ्घटनस्य पूर्वसूचना। 2050 संवत्सरे समागते 25% जनेभ्यः श्रवणसंबन्ध पीडा भविष्यति इति 'ग्लोबल् रिपोर्ट् ओण् हियरिङ्' इति आवेदने स्पष्टीकरोति। अणुबाधा, रोगाः, जन्म वैकल्यः, शब्दमलिनीकरणं, जीवितशैलीपरिवर्तनं च कारणत्वेन उच्यते। अतिश्रद्धा दीयते चेत् दोषान् परिहर्तुं शक्यते इति आवेद्यते विश्व स्वास्थ्य सङ्घटनेन।