विश्वस्वास्थ्य सङ्घटनाय कोविडस्य प्राथमिकविवरणानि प्रदातुं चीनेन वैमुख्यं प्रकाशितम्।
बैजिङ्> विश्वस्वास्थ्य सङ्घटनस्य नेतृत्वे कोविड् रोगाणोः प्रभवकेन्द्रम् अन्विष्यमाणेभ्यः सङ्घेभ्यः प्राथमिक-कोविड् बाधायाः विशदविवरणानि प्रदातुं चीनः विसम्मतं प्रकटितवन्तः। एवं चेत् महारोगः कथम् आरम्भः कृतः इति अवगन्तुं न शक्यते इति रोयिटेरस् वार्तासंस्थां प्रति सङ्घः अवदत्। प्रथमतया रोगग्रस्तानां १७४ जनानां विवरणानि एव सङ्घः अपृच्छत्। किन्तु चीनेन तेषां सङ्ग्रहः एव प्रदत्तः इति ओस्ट्रेलियायाः सङ्घाङ्गः डोमिनिक् डेयरः उक्तवान्।