सामाजिक-माध्यमानि कौमारजनानां मनस्वास्थ्यं नाशयन्ति; सर्वेक्षणफलम्।
कुमारी-कुमाराणां मनस्वास्थ्यनाशाय सामाजिक-माध्यमानाम् अमितोपयोगः कारणमित्युच्यते। 'एज्यूकेषन् पोलिसि इन्स्टिट्यूट्' 'दि प्रिन्स् ट्रस्ट्' च मिलित्वा कृत-सर्वेक्षणे भवति इदं प्रत्यभिज्ञानम्। इंग्लन्टस्थे ५००० कुमारि-कुमारेभ्यः सर्वेक्षणेन निर्धारितम् इदं विवरणम्। व्यायामस्य अभावः कोविड् काले अधिकतया मानसिकास्वास्थ्यस्य कारणम्।।