एवरस्ट् गिरिशिखरस्य उन्नतिः ८८४८.८६ इति पुनर्निर्णीता।
काठ्मण्डु > विश्वे सर्वेभ्यो उन्नतः गिरिशिखरः भवति एवरस्ट् । अस्य उन्नतिविषये जातायाः शङ्कायाः परिहाराय उन्नतिः मापिता। मापनानुसारम् एवरस्ट् गिरिशिखरस्य उन्नतिः ८८४८.८६ मीट्टर् इति पुनर्निर्णीता। १९५४ संवत्सरे भारतेन कृते मापन-प्रक्रियायां ८८४८ इत्यासीत् अस्य उन्नतिः। इदानीम् उन्नतिः ०.८६ मीट्टर् अधिकतया वर्धिता इति नेपाल-चीनयोः संयुक्तावेदनात् ज्ञायते।