पांगोङ् सीमाप्रदेशे चीनभारतसेनयोः प्रतिनिवर्तनम्
नवदिल्ली> पूर्वलडाक् प्रदेशस्थ-नियन्त्रण रेखातः सैनिकान् प्रतिनिवर्तयितुं चीनभारतयोः मध्ये संयुक्तनिश्चयः अभवत्। द्वयोः राष्ट्रयोः सीमासङ्घर्षे न्यूनता अभवत्। अस्मिन् सन्दर्भे एकसप्ताहाभ्यन्तरे सैनिकानां प्रतिनिवर्तनं भविष्यति।