'हेप्पटैटिस् - सि' सूक्ष्माणुम् अधिगतवतेभ्यः शास्त्रकारेभ्यः वैद्यशास्त्रनोबेल् पुरस्कारः।
स्टोक् होम्> अस्य संवत्सरस्य नोबेलपुरस्कारः हेप्पटैटिस् - सि' सूक्ष्माण्वधिगमाय। द्वाभ्यां अमेरिक्कीयगवेषकाभ्यां एकस्मै ब्रिट्टीष् गवेषकाय च पुरस्कारः संविभज्यते।
हार्वे जे आल्टरः, चाल्स् रैस् नामकौ अमेरिक्कीयशास्त्रज्ञौ मैक्कल् हौट्टण् नामकः ब्रिट्टीष् शास्त्रज्ञश्च अस्य संवत्सरस्य नोबेल जेतारः।