साहित्यनोबेलपुरस्कारः अमेरिक्कीयकवयित्र्यै।
स्टाक् होम्> अस्य संवत्सरस्य साहित्यनोबलपुरस्काराय अमेरिक्कादेशीया कवयित्री लूयिस् ग्लिक् नामिका अर्हा भवति। आत्मभाषणानां कवयित्री इति विशेष्यमाणा सा अधुना 'येल्' विश्वविद्यालये आङ्गलेयविभागे आचार्या भवति।
'दि ट्रयम्फ् आफ् अकिलस्' , 'दि वैल्ड् ऐरिस्' इत्यादयः तस्याः प्रमुखाः कृतयः भवन्ति। पुलिस्टर् पुरस्कारः [१९९३], National Book Award[२०१४] इत्यादयः बहवः अन्ताराष्ट्रपुरस्काराः तस्यै लब्धाः सन्ति।