विश्वक्षुधाविरुद्धयोजनायै नोबेलस्य शान्तिपुरस्कारः।
स्टोक्होम्> क्षुधाविरुद्धान्दोलनाय अस्य संवत्सरस्य नोबेल शान्तिपुरस्कारः। बुभुक्षितेभ्यः भोज्यवस्तूनि प्रापयन्ती संयुक्तराष्ट्रसभायाः 'W F P' नामिका अभियोजना एव पुरस्कारार्हा अभवत्।
विश्वस्मिन् क्षुधां दूरीकर्तुं तथा च संघर्षमण्डलेषु शान्तिप्राप्त्यर्थं कृतानि प्रवर्तनानि पुरस्कृत्य एव शान्तिपुरस्कारः दीयते इति पुरस्कारनिर्णयसमितेः अध्यक्षा बेरिट् रैस् आन्डेर्सण् उक्तवती। कोविड्कालसेवाः अपि पुरस्कारनिर्णये सूचिका अभवत्।