'सिरम् इन्स्टिट्यूट्' संस्थायाः कोविड्प्रत्यौषधं मार्च्मासे ।
पूना> आगामिनि मार्च्मासे राष्ट्रे कोविड्रोगस्य प्रत्यौषधं लभ्यं भविष्यतीति प्रत्यौषधोद्पादकसंस्थया सिरम् इन्स्टिट्यूट् इत्यस्य निदेशकप्रमुखेन सुरेष् जादवेन प्रोक्तम्। भारते सप्तकोटिसंख्याकाः मात्राः लप्स्यन्ते इति प्रतीक्षा अस्ति।
प्रत्यौषधपरीक्षणेषु द्वे तृतीयसोपानम्, एकं तु द्वितीयसोपानं च अतीतम्।