कोविड् वर्धनं- पञ्च राज्यानि प्रति केन्द्रसंघः।
नवदिल्ली> कोविड्-१९ बाधिताः अनियन्त्रितेन वर्धते इत्यस्मात् ५ राज्यानि प्रति केन्द्रसर्वकारः उन्नततलं स्वास्थ्यसंघं नेष्यति। केरलं, कर्णाटकं, पश्चिमवंगः, राजस्थानं, छत्तीसगढ़् इत्येतानि तानि राज्यानि। रोगव्यापनं नियन्त्रयितुं मार्गनिर्देशं दातुमेव केन्द्रसंघस्य गमनम्। राष्ट्रस्य अशेषेषु कोविड्बाधितेषु ४.३% रोगिणः [३,१७,९२९] केरलतः भवन्ति। राष्ट्रजनसंख्यायाः २.७६% एव केरलस्य जनसंख्या इत्यतः पूर्वोक्तः कोविड्संख्या गौरवास्पदा भवति।