नवदिल्ली > भारते प्रमुखाः कोविड्रोगाधीनाः जायन्ते। राष्ट्रस्य गृहमन्त्री अमित शाहः कोविड्रोगबाधितः आतुरालयं प्राविशत्। अमित शाहः स्वेनैव रोगबाधावृत्तान्तं ट्विटर्द्वारा विज्ञापितवान्।
पञ्चदिनेभ्यः पूर्वं केन्द्रमन्त्रिसभामण्डलस्य उपवेशने भागं गृहीतवान्। ह्यः कोविड्रोगस्य लक्षणानि प्रकटितवानासीत्। भिषग्वराणाम् उपदेशानुसारं आतुरालयवासः चितः। गुरुग्रामस्थे मेदान्तातुरालये एव प्रविष्टः अस्ति। तस्य स्वास्थ्यावस्था उत्तमा इति आतुरालयवृत्तैः सूचितम्।