“राष्ट्रभाषा हिब्रूभाषा” इति सङ्कल्पसाधकं स्वाभिमानि इजरायलम्।
-डा.भारती शर्मा
-आचार्य: रामकृष्णशास्त्री च (जयपुरम्)
द्विसहस्रवर्षेभ्यः यावत् विश्वस्य विविधराष्ट्रेषु इतस्ततः भ्रमणशीलानां यहूदीनां न तु स्वराष्ट्रमासीत् नापि भूमिः न च संस्कृतिः। परन्तु ते मातृभुवं प्रति दृढसंकल्पाः आसन् यत् यदापि पुनः मेलिष्यामः जेरुशेलमे एव। तस्मिन् काले तान्निकषा इजरायलदेशः यहूदीसंस्कृतिः हिब्रूभाषा च नासन् । स्वसङ्कल्पं साधयितुं ते उत्साहिनोऽस्यां पृथिव्यां भ्रमन्तः यदापि परस्परममिलन् स्वसङ्कल्पमस्मरन् यदस्माकं पुनः मेलनं जेरुशेलमे एव भविष्यति । सङ्कल्पः पूर्णतामयात् । यहूदयः इजरायलदेशं 1948 ई.तमे वर्षे प्राप्नुवन्। विश्वस्य लघुतमेषु राष्ट्रेष्वन्यतमः एष देशः चतसृषु दिक्षु अरबराष्ट्रैः आवृतः निर्जनमरुभूमिः आसीत् ।
मरुस्थलं मरुस्थलमिवासीत्, तथैव मृदा । कालान्तरे इजरायलवासिनां सोत्साहपरिश्रमेण मृदायामद्भुत-परिवर्तनमारब्धम् । मरुभूमेः कृषकराष्ट्रमिदं सम्प्रति विश्वाय उन्नतकृषितकनीकिं विक्रीणाति। प्रतिदिनं नैक 'टन' परिमितं शाकानि फलानि च यूरोपं प्रति प्रेषयति। अद्य या “ड्रिप इरिगेशन सिस्टम” इत्याख्या प्रथिता सेचनप्रणाली जगता उपयुज्यते सा इजरायलेनाविष्कृता। विश्वस्य शक्तिसम्पन्नासु गुप्तचरसंस्थासु इजरायलदेशस्य मोसाड इति नाम्नी गुप्तचरसंस्थान्यतमा वर्तते ।
इजरायलं स्वाभिमानस्य आत्मविश्वासस्य आत्मसम्मानस्य च प्रतीकमस्ति । तस्य देशस्य जनसंख्या प्रायः अशीतिलक्षमात्रमस्ति । तत्र देशस्य एकायाः सीम्नः अपरां सीमानं गन्तुं घण्टात्रयं चतुष्टयं वा पर्याप्तमस्ति इत्यनेन तत्रत्याः विकसितपरिवहनव्यवस्था ज्ञायते । पृथिव्याः जलराशेः द्विप्रतिशतं जलमेव तस्य जलसम्पत्तिः। प्राकृतिकसंसाधनानां प्रायोऽभावः। कदाचिद् भगवतापि तद्राष्ट्रं प्रति समदृष्टिः न धृता यतोहि समीपस्थेषु अरबदेशेषु तैलस्य प्राचुर्यम्, इजरायले तदपि नास्ति।
इजरायलं राजनीतिकजीवन्ततायाः बोधस्य च पराकाष्ठां धारयति । तस्मिन् लघुराष्ट्रे आहत्य द्वादशराजनीतिकदलानि वर्तन्ते । यद्यपि अद्यावधि न किमपि दलं पूर्णजनमतैक्येन सर्वकारं स्थापयितुं समर्थमभवत् । तथापि तत्र पूर्णतः ऐक्यं दृश्यते- राष्ट्रस्य सुरक्षायै सम्मानाय स्वाभिमानाय हिताय च । एतेषु विषयेषु न तु किमपि दलम् अनुचितपथा सन्धानं करोति न च सर्वकारस्य पतनाय सत्तारूढं संघं भीषयते । इजरायलस्य स्वकीया राष्ट्रियहितावली भवति या सर्वैः दलैः समाद्रियते ।
14 मई 1947 तमे वर्षे इजरायलस्य स्थापनायां सत्यां जगतः सर्वेभ्यः राष्ट्रेभ्यः यहूदयः तत्रागच्छन् । अस्माकं भारतदेशादपि सहस्राणि यहूदयः स्थानान्तरिताः अभूवन् । विविधेभ्यः देशेभ्यः आगन्तॄणां प्रवासिनां भाषाः भिन्नाः आसन् । अतः पश्नः उद्गतः यद्देशस्य भाषा का भवेत्? तेषां हिब्रूभाषा तु प्रायः द्विसहस्रवर्षेभ्यः मृतेवासीत् । अत्यल्पाः जनाः एव हिब्रूम् अजानन् । अनया भाषया रचितस्य प्राचीनसाहित्यस्यापि अल्पतासीत् । नूतनसाहित्यस्य तु सर्वथैव अभावः। अतः केनापि जनेन आङ्ग्लभाषां देशस्य सम्पर्कभाषां कर्तुं स्वमतं प्रकटितम् । परन्तु स्वाभिमानिनः इजरायलवासिनः कथमेतत् सहेरन् ? तैरुक्तम् अस्माकं हिब्रूभाषा एव जनभाषा भविष्यतीति निर्णीतम् । किन्तु व्यावहारिकदृष्ट्या नैकाः समस्याः विस्फारितमुखाः आसन् । अत्यल्पाः जनाः हिब्रूभाषया परिचिताः आसन् अत एव इजरायलसर्वकारेण हिब्रोः ज्ञानाय मासद्वयस्य पाठ्यक्रमः निर्धारितः। तेन विश्वस्य महतः भाषाभियानस्य प्रारम्भः जातः। यस्य कालावधिः पञ्चवर्षाण्यासन् । एतस्याभियानस्यान्तर्गते सम्पूर्णे देशे ये केऽपि हिब्रूज्ञानिनः आसन् । ते नित्यं प्रातः एकादशवादनादाराभ्य एकवादनं यावत् स्वगृहस्य निकटस्थे विद्यालये हिब्रूम् अपाठयन्। अनेन प्रकारेण बालाः तु पञ्चसु वर्षेषु हिब्रूं शिक्षिष्यन्ते परं प्रौढानां किमिति । एतस्य समाधानाय पाठशालासु अधीयानैः बालकैः प्रतिदिनं सायं काले पितरौ प्रतिवेशिनः प्रौढाः वृद्धाः च पाठिष्यन्ते इति व्यवस्था कल्पिता। तत्रापि बालाध्यापकानां पाठने त्रुटिः भवितुमर्हतीति स्वाभाविकम् । तन्निराकर्तुं 1947 ई.तमस्य वर्षस्य अगस्तमासतः आरभ्य 1953 ई. वर्षस्य मई मासं यावत् हिब्रूभाषायाः मानकपाठस्य रेडियोमाध्यमेन प्रसारणमभवत् । इत्थं बालेभ्यः पाठनकाले याः त्रुटयः विहिताः तासां त्रुटीनाम् अपाकरणं वयस्काः रेडियोपाठमाध्यमेन सम्यगवगम्य स्वयमेव करिष्यन्तीति निर्धारितम् । अनेन क्रमेण 1953 ई. वर्षेऽभियानस्य सम्पूर्तिकाले केवलं पञ्चसु वर्षेषु इजरायलं हिब्रूभाषायां शतप्रतिशतसाक्षरतामाप्नोत्।
अधुना हिब्रूभाषया नैके शोधप्रबन्धाः प्रकाशिताः। लघ्वस्मिन् राष्ट्रे समग्रराज्यकार्यम्, अभियान्त्रिकि-चिकित्साशास्त्रमित्याद्यः सर्वविधाः उच्चशिक्षाश्च हिब्रूभाषयैव सम्पाद्यन्ते । इजरायलदेशमवगन्तुं ज्ञातुञ्च अपरेषां राष्ट्राणां छात्राः हिब्रूं पठितुमारब्धाः।
एतादृशं देशमस्ति इजरायलम् । जीवन्ततायाः जिजीविषायाः स्वाभिमानस्य च मूर्तिः।
भाषासंस्कृत्योः विषयेऽस्माकं का स्थितिः? अद्यापि वयं दैन्येन आङ्ग्लं प्रति दत्तदृष्टयः स्मः। कथं संस्कृतं जनभाषां कर्तुं न क्षमाः वयमिति चिन्तनीयम् ।