संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्,
नमांसिछात्रा:,शिक्षका:,प्राध्यापका:,अनुरागिण:,सामाजिका:,महिला:,बाला:,युवान:,भारतीया: चेति वयं सर्वे संस्कृतस्य जना:। परं संस्कृतं कस्य इति प्रश्न: पर्वतायते। य: 'संस्कृतं मम' इति चिन्तयति स: अवश्यमेव संस्कृतस्य प्रयोगं कुर्यात्। ममत्वस्य अनुभूत्यै, प्रकटनाय वा अन्यत् विधानं नास्ति संस्कृतप्रयोगं विहाय ।सर्व: अपि चिन्तयेत्-अहं संस्कृतात् ज्ञानं प्राप्नुवम्, वित्तं पदं च प्राप्नुवम्, समाजे प्रतिष्ठां स्थानं सम्मानं च प्राप्नुवम्। परं संस्कृतं मत् किं वा प्राप्नोत्? मित्राणि, वयं 'संस्कृतं मम' इति ममत्वप्रकटनाय अनुभूत्यै च संस्कृतव्यवहारशीलाः भवेम।
जयतु संस्कृतम् जयतु भारतम् ।