अत्याधुनिकम् अल्ट्रावयललट् किरणेन अणुनाशिनि संविधानम्।
कोविड्-१९ अपि अधीने भविष्यति।
कोच्ची> कोविड् -१९ वैराणुं प्रतिरोद्धुं नूतनं संविधानं सुसज्जमभवत्। 'अल्ट्रावयलट्' किरणानुपयुज्य (RazeCoV UVC Disinfection System) अल्ट्रावयलट् जर्मिडल् रेडियेषन् (Ultraviolet Germicidal Irradiation -UVGI) दीपमुपयुज्य भोजनशाला- आतुरालय-विमाननिलयेषु सर्वत्र प्रदेशेषु वैराण्वोः जीवाण्वोः च नाशः अनेन शक्यते। भारते कोच्चीप्रदेशस्थे ऐ बिस् मेडिक्कल् एक्युप्मेन्ट् आन्ट् सिस्टम्स् प्रैवट् लिमिट्टड् इति संस्थया उपकरणमिदं निर्मितम्।