भारतस्य स्वतन्त्रता दिवसः समागच्छति।
कोविड्रोगस्य काले स्वतंत्रता दिवसः।
नव दिल्लीः - कोरोणा महारोगस्य काराणात् भारतदेशस्य इतिहासे प्रथमः वारं रक्तदुर्गे स्वतंत्रता दिवस्य समारोहः पृथक् रूपेण मन्यते। गतवर्षस्य तुलनया अस्मिन् वर्षे केवलं प्रतिशतं विंशति "अति महत्वपूर्णाः जनाः" अन्याः जनाः च प्रधानमन्त्रिणः मोदिनः प्रसारणं दृष्टुम् शक्ष्यन्ते। पाठशालानां छात्राणां स्थानेषु पंचशताधिक-सहस्त्रं कोरोणा रोगान्मुक्ताः एतस्मिन् भागभाक् भविष्यति।
समारोहे अस्मिन् छात्रेभ्यः भागं कर्तुं न शक्यते। एतस्मिन् पञ्चाशत् स्थानीयाः नगरारक्षकाः भविष्यन्ति अन्याः सहस्रं भागभागिनः देशस्य पृथक् पृथक् क्षत्रेभ्यः भविष्यन्ति।