केरले कर्णाटके च ऐ एस् भीकराणां सजीवसान्निध्यमस्तीति यू एन् दृढीकरणम्।
जनीव > केरल-कर्णाटक राज्यद्वये अपि इस्लामिक् स्टेट् नामकस्य [ऐ एस्] आतङ्कवादसंघटनस्य प्रभावः अस्तीति संयुक्तराष्ट्रसंघटनेन स्थिरीकृतम्। ऐ एस् , अल्-खयिदा इत्येताभ्यां संघटनाभ्यां सह संबन्धिताः पुरुषाः संस्थाः इत्यादिकमधिकृत्य आवेदने एवायं परामर्शः।
भारतीयगुप्तान्वेषणसंस्थाभिः तथा एन् ऐ ए संस्थया च अयं विषयः पूर्वमेव दृढीकृत अपि यू एन् संस्थायाः दृढीकरणं प्रथममेव।
पूर्वोक्तसंस्थायाः प्रादेशिकशाखाः आलक्ष्य दक्षिणेष्यन् राष्ट्रेषु आक्रमणाभियोजनाः संकल्प्यन्ते इति आवेदनपत्रे सूचितम्। १८० - २०० अङ्गाः प्रादेशिकसङ्घे वर्तन्ते इत्यपि सूचितम्।