कोरोण वैराणोः प्रभवस्थानं प्रत्यभिज्ञातुं WHO सङ्घः चीनराष्ट्रं प्रति
जेनेव> कोविड्19 रोगबाधायाः कारणभूतस्य वैराणोः सार्स् कोव् -२ इत्यस्य प्रभवस्थानम् अन्वेष्टुं सक्षमान् वैज्ञानिकान् प्रेषयितुम् उद्युक्तः विश्वस्वास्थ्य संस्थया। समागते सप्ताहे वैज्ञानिकाः चीनराष्ट्रं प्राप्स्यन्ते। चीनस्य परीक्षणशालातः वैराणोः उत्पत्तिः इति आरोपण-प्रत्यारोपणयोः मध्ये भवति विश्व-स्वास्थ्य-संस्थायाः विज्ञप्ति प्रकाशनम्। वैराणोः आविर्भावम् अधिकृत्य अवश्यं ज्ञातव्यम् । वैराणुं विरुद्ध्य योद्धुम् सफल-चिकित्सापद्धत्याः समायोजनाय इदम् अन्वेषणम् अनिवार्यमिति विश्व-स्वास्थ्य-संस्थाया: अध्यक्षः डेड्रोस् अथनों गब्रियेससः अवदत्।