भारतमहासमुद्रे भारतामेरिक्कयोः संयुक्तसेनाभ्यासः।
कोच्ची > भारतीयमहासमुद्रे भारतस्य अमेरिक्कायाश्च नाविकबले युगपत् सेनाभ्यासमकुरुताम्।चतस्रः नाविकमहानौकाः एकेकस्मै राष्ट्राय भागभागित्वं कृतवत्यः।
भारत-चीनसंघर्षस्य भूमिकायाम् अस्याभ्यासस्य सविशेषं प्राधान्यमर्हति। 'पासेक्स्' नामकमेते अभ्यासप्रक्रमाः विधिमनुसृत्य प्रचाल्यमानाः इति नाविकसेनाधिकृतैः सूचितम्। भारतस्य मित्रराष्ट्रेण सह सन्दर्शने एतादृशाः अभ्यासप्रक्रमाः परस्परसहयोगस्य सौहृदस्य च संवर्धकत्वेन वर्तन्ते।