बिहारराज्यस्य उत्तरभागेषु गतेचतुर्विंशति-होराः यावत् वृष्टिः अनुवर्तते। मुजफ्फरपुरक्षेत्रम् अभवत् जलमय्।
मुज़फ्फरपुरम्> बिहारराज्यस्य मुजफ्फरपुरक्षेत्रे गतेचतुर्विंशति होराः यावत् अतिवृष्टिः अनुवर्तते। स्थानीयानां जनानां जीवनम् अपि अव्यवस्थितं जातम्। मुजफ्फर पुरस्य अधिकतम-क्षेत्राणि जलमग्नानि अभवन्। रेलयानखण्डाः मार्गाः च जलेन आप्लाविताः सन्ति। मुजफ्फरपुर प्रदेशः सर्वाधिक-दुष्प्रभावितं वर्तते। वीथयः, विपण्यः च जलाप्लाविताः जाताः। सहस्रेषु गृहेषु आपणेषु च वृष्टिजलस्य प्रवेशनेन कोटिशः संपत्तेः क्षतिः अनुमी यते। राज्येऽस्मिन् पर्जन्यकालस्य प्रबलवृष्टिकारणात् "स्मार्ट-सिटी" इति नगरक्षेत्रेषु जलप्रलयस्य स्थितिः उत्पन्ना अभवत्।