कोविड् व्यापनं - वासरान्त्यपिधानं कर्कशं कुर्वन् उत्तरप्रदेशः।
लख्नौ > कोविड्रोगस्य व्यापनं निरोद्धुं शनि-रविवासरद्वये निखिले राज्ये सम्पूर्णपिधानं विधातुं यू पि सर्वकारेण निश्चितम्। शनिवासरे कोविड्बाधिताः ३६,००० उपागताः इत्यस्मादेवायं निर्णयः। मरणानि तु ९३३ च जातानि।
अवशिष्टेषु शनि - रविवासरेषु कर्कशं सम्पूर्णपिधानं भविष्यतीति राज्यस्य उपमुख्यकार्यदर्शिना अवनीष् अवस्तिवर्येण निगदितम्। नगरेषु ग्रामेषु च पिधानं प्रायोज्यते। कार्यालयाः आपणाश्य पिधास्यन्ते। वित्तकोशाः प्रवर्तिष्यन्ते। रविवासरे केवलं अवश्यसेवाविभागः प्रवर्तिष्यते। गतशुक्रवासरे रात्रौ दशवादनादारभ्य ५५ होरादीर्घितं पिधानं सर्वकारेण आयोजितमासीत्।