मिसोरां राज्ये भूचलनम् - रिक्टर् मापिन्यां ४.३ इति तीव्रता अङ्किता।
ऐस्वाल्> मिसोरां राज्ये चम्बाई जनपदे भूचलनम् अभवत्। ४. ३ इति रिक्टर्-मापिन्यां अङ्कितं भूचलनं गुरुवासरे मध्याह्ने आसीत्। जीवापायः वा वस्तुनाशः वा न अभवत्। चम्पाईतः २३ किलो मीट्टर् पूर्वदक्षिण-भागे दश-किलो मीट्टर् अन्तर्भागः भवति प्रभवकेन्द्रः इति राष्ट्रिय-भूकम्प-विज्ञान-केन्द्रेण उच्यते। विगते मासत्रयाभ्यन्तरे आहत्य अष्ट भूचलनानि आपन्ननि। चम्पाई देशे त्रीणि चलनानि च अभवन्। अनुवर्तमानेन भूचलनेन प्रदेशवासिनः आशङ्काकुलाः वर्तन्ते।