कोविड् - पुनरपि चीनदेशम् आक्रमति। बीजिङ् प्रदेशे ११ स्थानेषु पुनरपि पिधानम् ।
बीजिङ्> चीनराष्ट्रे कोविड् रोगाणुसङ्क्रमणं पुनरारब्धम्। मांस विक्रयण- शालासंबन्धितया भवति नूतनरोग-व्यापन-वार्ता। अत एव बीजिङ् देशस्थ ११ वासस्थानानि पिहितानि। सिन्फादि मांसविक्रयण-शालां परितः ७ रोगव्यापन-विवरणानि बहिरागतानि। एतेषु ६ संख्याकानि शनिवासरे एव आवेदितानि भवन्ति इति अधिकारिभिः उच्यते। अत एव समीपस्थाः नव विद्यालयाः शिशुवाटिकाः च पिहितेषु सन्ति।