भारते सम्पूर्णपिधानं सोपानबद्धतया निराक्रियते।
राष्ट्रस्य उद्घाटनाय सोपानत्रयं विहितम्! उद्घाटनं १ जूण् ८ दिनाङ्कतः!
नवदिल्ली > ६७ दिनानां पिधानस्यानन्तरं राष्ट्रोद्घाटनाय भारतम्। जूण् प्रथमे दिने आरभ्यमाणे पिधानस्य पञ्चमसोपाने केवलं तीव्रमण्डलेष्व कर्कशनियन्त्रणानि विधास्यन्ति। अन्यमण्डलप्रदेशेषु सोपानबद्धतया साधारणप्रवर्तनानि अनुमोदितुं केन्द्रशासनेन 'अण्लोक् -१'नामकाः मार्गनिर्देशाः उद्घुष्टाः।
मुख्याः निर्देशाः -
* अपिधानं - १ काले$पि मुखावरणधारणं, सामाजिकदूरपालनम् इत्यादीनि अवश्यानि!
* विवाहः,मरणानन्तरक्रिया इत्यादीनां सामान्यकार्यक्रमाणां नियन्त्रणमनुवर्तिष्यते!
* तीव्रमण्डलेभ्यः बहिः कानि कानि नियन्त्रणानि आवश्यकानीति तत्तद्राज्यसर्वकारैः निर्णेतुं शक्यते!
* जूण् ८तः आराधनालयाः विपणिकलापाः, भोजनालयाश्च उद्घाटनीयाः!
'अपिधानं २' सोपाने विद्यालयानामुद्घाटनविषये राज्यसर्वकारैः सह चर्चां कृत्वा अन्तिमनिर्णयः कार्यः! अपिधानस्य तृतीयसोपाने चलच्चित्रशालाः ,उद्यानानि , इत्यादीनां सामान्यजनसम्पर्कमण्लानां विषयेषु निर्णयः भविष्यति!