भारते सामान्यगमनागमनसुविधा अचिरादेव पुनरारभ्यते - केन्द्रमन्त्री नितिन् गड्करिः।
चित्रं- इन्ट्यन् एक्स्प्रस् द्वारा |
नवदहली> भारतराष्ट्रे सामान्यगमनागमनसुविधा अचिरादेव पुनरारभ्यते इति केन्द्र-सामान्य-गमनागमन-विभागमन्त्री नितिन् गड्करिः न्यवेदयत्। एतदर्थं आवश्यकान् निर्देशान् अन्तर्भाव्य विज्ञापनं करिष्यतीति मन्त्री असूचयत्। इतःपरं सामूहिकतया परस्परं दूरं परिपाल्य एव यात्रादिकं करणीयम् इत्यपि सः अवदत्। सामान्यगमनागमनसुविधायाः तथा देशीयमार्गाणां च पुनरारम्भः जनेषु आत्मविश्वासं वर्धयिष्यति इति सः अवदत्। राष्ट्रस्य वाहनप्रचालकसमित्या सह सामूहिकमाध्यमद्वारा कृते मेलने भाषयन्नासीत् सः।