कोरोणप्रतिरोधः - भारताय विश्ववित्तकोशपक्षतः पुनरपि धनसाहाय्यम्।
नवदहली> कोरोणप्रतिरोधप्रवर्तनेभ्यः भारताय विश्ववित्तकोशपक्षतः पुनरपि १०० कोटिडोलर् धनसाहाय्यम्। पूर्वं १०० कोटिडोलर् धनसाहाय्यम् प्रख्यापितमासीत्। केन्द्रसर्वकारस्य सामूहिक-सुरक्षापरियोजनानां कृते एव धनसाहाय्यम्। विश्ववित्तकोशेन कोरोणबाधितेभ्यः राष्ट्रेभ्यः ७५०० कोटिडोलर् धनसाहाय्यं प्रख्यापितं वर्तते। रोगनिरीक्षणोपकरणानां तथा अन्येषां प्रतिरोधप्रवर्तनानां च कृते धनविनियोगः कार्यः। सम्पूर्णपिधानसहितैः नियन्त्रणैः सञ्जाताम् आर्थिकीं दुरवस्थां परिहर्तुमेव धनसाहाय्यं प्रख्यापितम् इति विश्ववित्तकोशाध्यक्षः जुनैद् अहम्मद् अवदत्।