एष्या भूखण्डेषु वेगेन कोरोणा व्यापितं राष्ट्रं भारतम्I
नवदिल्ली> भारते कोरोणा वैराणुग्रस्थाः लक्षम् अतीताः। एष्य भूखण्डेषु वेगेन कोरोणा व्यापितं राष्ट्रं भारतं भवति इत्यस्ति नूतनम् आवेदनम्। राष्ट्रे पिधान-नियन्त्रणादिकं लघूकृत्य आर्थिकप्रयत्नानि समारब्धे काले भवति ईदृशम् आवेदनम्। 1,01,328 जनाः रोगग्रस्तानां पट्टिकायां सन्ति। त्रिसहस्रात् परं जनाः मृताःl ब्लूम् बेर्ग् इत्यस्य कोरोणावैराणु अनुधावनाङ्कानुसारं गत सप्ताहे रोगग्रस्थतामानकं प्रतिशतं 28 इति वर्घितम्। 42,125 रोगबाधिताः 903 मृताः इति आवेदिते पाकिस्थाने रोगग्रस्थतामानकं प्रतिशतं 19 इति आवेदितम् अस्ति।