ऐक्यराष्ट्रसभायां भारतस्य स्थिरप्रतिनिधिरूपेण टि एस् तिरुमूर्तिः नियमितः।
नवदहली > ऐक्यराष्ट्रसभायां भारतस्य स्थिरप्रतिनिधिरूपेण टि एस् तिरुमूर्तिः नियमितः। सयीद् अक्बरुदीनस्य स्थाने एव तिरुमूर्तेः नियमनं वर्तते। सार्वलौकिकमण्डले विविधेषु विषयेषु भारतस्य शब्दः भवति सयीद् अक्बरुदीन्। सः अचिरादेव स्वस्थानात् विरम्यते। १९८५ वर्षस्य ऐ एफ् एस् गणे उद्योगस्थः भवति टि एस् तिरुमूर्तिः।अधुना भारतस्य विदेशकार्यमन्त्रालये कार्यदर्शी भवति टि एस् तिरुमूर्तिः।