तृशूर् > दक्षिणभारतस्य अतिप्रशस्तः 'तृशूर् पूरं' नामकः मन्दिराघोषः कोविड् प्रतिरोधस्य अंशतया अस्मिन् संवत्सरे पूर्णतया परित्यक्तः। मेय् द्वितीयदिनाङ्के अस्त्ययमुत्सवः। भारते संपूर्णपिधानं मेय् ३ पर्यन्तं दीर्घीकृतम् इत्यस्य आधारे तिरुवम्पाटि पारमेक्काव् देवस्वप्रतिनिधयः मन्त्रिणः जनपदाधिकारी इत्यादीनां नेतृत्वे आयोजिते उपवेशने आसीदयं निर्णयः।
शक्तन् तम्पुरान् महाराजेन व्यवस्थापितं ४८ होरापरिमितं यावत् अनुवर्तमानं 'पूरं' पूर्णतया परित्यक्तुं निर्णयः इदंप्रथममेव। इतःपूर्वं त्रिवारं पूरं नाममात्रं सम्पन्नम्। १९४८ तमे वर्षे महात्मागान्धिनः निहननं, १९५७ तमे ध्वनकाघोषनियन्त्रणं , १९६३ तमे भारत-चीनयुद्धं च आलक्ष्य आसीत् नाममात्रेण पूरमायोजितम्। किन्तु अस्मिन् वर्षे मन्दिरेषु पूजादयः आचाराः एव भवेयुः। तिरुवम्पाटी, पारमेक्काव् मन्दिराभ्यां विना अष्ट इतराणि समीमस्थानि मन्दिराणि च अस्मिन् पूरे भागं वहन्ति।
'इलञ्ञित्तरमेलं' नामकं लोकोत्तरं पञ्चेन्द्रियसुखदं तालैक्यं [ विश्वस्य नयनाभिरामदृश्येषु अन्यतममिति युनस्कोसंस्थया प्रकीर्तितं 'कुटमाट्टम्' इत्याख्यं छत्रपरिवर्तनं , रात्रेः अन्त्ययामेषु सम्पद्यमानं नयनाभिरामं ध्वनकमालाविस्फोटनं च आस्वदितुं वैदेशिकान् अभिव्याप्य दशसहस्रशः जनाः तृश्शूरे वटक्कुन्नाथमन्दिरम् उपयान्ति। सहस्रशानां जनानां कर्मकराणां च उपजीवनमार्गश्च अस्त्ययमाघोषः। एतत्सर्वं कोरोणाव्यापनस्य हेतुना स्थगितं जायते।