कोरोणा - आविश्वं मरणानि अर्धलक्षम् अतीतानि।
इट्टली - १३,०००+, स्पेयिन् - १०,०००+, यू एस् - ५,०००+, फ्रान्स् - ४,०००+, इरान् - ३,०००+ चीनः - ३३००+!
> आविश्वं कोरोणा विषाणुबाधया इतःपर्यन्तम् अर्धलक्षाधिकं जनाः मृत्युपगताः। विषाणुबाधिताः दशलक्षमुपगताः। इट्टली, स्पेयिन्, यू एस् इत्येषु राष्ट्रेषु विषाणुबाधा नियन्त्रणातीता वर्तते। प्रतिरोधप्रवर्तनानि प्रतीक्षानुसारं फलप्राप्तिं न एति।
यूरोपीयराष्ट्रेषु रोगिणां संख्या पञ्चलक्षमतीता। स्पेयिन् इट्टली राष्ट्रयोः प्रतिदिनं सामान्यतः ८०० जनाः मृत्युमुपयान्तीति आशङ्कां वर्धयति। इतःपर्यन्तम् इट्टल्यां १३,००० अधिकाः, स्पेयिने १०,०००अधिकाः जनाः मृताः। बल्जियंराष्ट्रे मृत्युसंख्या सहस्रं प्राप्ता।
गल्फ् राष्ट्रेषु च रोगबाधिताः वर्धन्ते। सौदीराष्ट्रे १८८५ जनाः रोगबाधिताः इति दृढीकृतम्। २१ मरणानि अभवन्। सर्वेषु राष्ट्रेषु शक्तं नियन्त्रणप्रक्रमाः स्वीकृताः सन्ति।