कोविड-नवदश सङ्क्रमणविषये मिथ्या प्रचारकर्तृणो जनान् विरुध्य प्राथमिक्य: पञ्जीकरिष्यन्ते- गृहसचिव:
-पुरुषोत्तमशर्मा
अजयभल्ला |
नवदेहली> गृहसचिवः अजयभल्ला प्रावोचत् यत् सद्यैव पारगमनानुमति-नियमोल्लङ्घनं विधाय भारतयात्रायां समानता: वैदेशिक-नागरिकाणां नामानि प्रतिबन्धितानां सूच्यां संयोज्य तान् विरुध्य कठोर-कार्याचरणं करिष्यते। सममेव निगदितं यत् कोविड-नवदश सङ्क्रमणविषये मिथ्या प्रचारकर्तृणो जनान् विरुध्य अपि आपत्प्रबन्धनाधिनियमानुगुणं प्राथमिक्य: पञ्जीकरिष्यन्ते।