50,000 कोरोणग्रस्ताः, स्वात्मनिरीक्षणबन्धनं न आवश्यकम् - ट्रम्पः
वाषिङ्टण्> अमेरिक्का राष्ट्रे कोरोणग्रस्तानां सङ्ख्या 50,000 इति अभवत्। तथापि स्वात्मनिरीक्षणबन्धनं न आवश्यकम्, जनेभ्यः यात्रानियन्त्रणम् एव आवश्यकम् इति अमेरिक्कस्य राष्ट्रपतिना डोणाल्ड् ट्रम्पेण उक्तम्। न्यूयोर्क्, न्यूजेर्सि, कणक्टिकट् प्रदेशाः कोविड् -१९ विषाणोः प्रभावित-केन्द्रः इति ट्रम्पेण अभिप्रेतम् आसीत्। तम् अभिमतम् उपजीव्य भवति ट्रम्पस्य नूतनाभिमतानां प्रकाशनम्। स्वात्मनिरीक्षणबन्धनं न आवश्यकम् इति ट्रम्पेण टिट्वर् मध्ये लिखितम्।