वुहान् पुनरुद्घृतम्। रेल् यानं पुनरारब्धम्।
वुहान्> कोरोणविषाणोः प्रभवस्थाने वुहान् नगरे जनानां जीवनं सामान्यावस्थां प्राप्नोति। मासानां बन्धनात् मुक्ता रेल्यान सेवा ह्यः समारब्धा। यात्राबन्धनं पूर्णतया न विमुक्तम् इति कारणेन निजीय यानानि चालयतुम् अनुज्ञा नास्ति। उपसहस्रं जनाः रेल् याने यात्रायै आगताः आसन्। सर्वे मुखावरणं धृतवन्तः आसन्। विषाणुप्रतिरोध-प्रवर्तनानि अनुवर्तते इत्यनेन जनाः हस्तावरणादिकं धृतवन्तः आसन् इति अन्ताराष्ट्रमध्यमैः आवेदितम्। वुहान् नगरे 50,000 जनाः रोगग्रास्ताः आसन्। मृतानां संख्यायायां न्यूनत्वम् आगतं चेदपि ह्यः त्रयः मृताः।