कोरोण विषाणु-व्यापनं गुरुतरम् - विश्व स्वास्थ्यसंस्थाI
जनीव> कोरोण विषाणु-व्यापनं गुरुतररूपेण परिवर्तितम् इति विश्व स्वास्थ्यसंस्थया निवेद्यते। लक्षत्रयं घटनाः इतःपर्यन्तं व्यापकतया आवेदिताः इति कारणेन भवति विश्व स्वास्थ्य-संस्थायाः पूर्वसूचना-प्रसारणस्य कारणम्। पूर्वकालापेक्षया इदानीम् अतिवेगेन जनान् प्रति व्याप्यते विषाणुः इति विश्वस्वास्थ्य सङ्घटनस्य अध्यक्षः टेड्रोस् अदानं गेब्रेयससः उक्तवान्I राष्ट्राणि प्रतिरोधप्रक्रमाः शीघ्रं स्वीकरणीयानि इत्यपि सः उद्बोधितवान्।