भारते सप्त कोरोणाबाधिताः।
नवदिल्ली > भारते कोरोणाविषाणुबाधितानां संख्या सप्त अभवत्। राजस्थाने 'कोविड् - १९' स्थिरीकृतस्य इट्टलीयविनोदसञ्चारिणः पत्नी अपि विषाणुबाधितेति सूचिता। पूणैस्थायां राष्ट्रिय विषाणुसंस्थायां कृते स्रवशोधने एवं निर्णीतम्। अनेन भारते वर्तमानेषु विषाणुबाधिताः सप्ताभवन्।
किन्तु परिभ्रान्तेः आवश्यकता नास्तीति विषाणुबाधाव्यापननिरोधाय फलप्रदाः प्रक्रमाः स्वीकृताः इति च प्रधानमन्त्रिणा निगदितम्।
यू एस् राष्ट्रे मरणानि सप्त। > ९१ जनाः विषाणुबाधया विद्यमाने अमेरिक्काराष्ट्रे सप्त मृत्युमुपगता इति उपाध्यक्षः मैक् पेन्स् उक्तवान्। सर्वाणि मरणानि वाषिङ्टणराज्ये एव अभवन्।