कोरोण-रोगात् अतिजीवनं कृतवतां रक्तं रोगग्रस्थानां चिकित्सायै।
वाषिङ्टण्> कोरोणरोगग्रस्थानां चिकित्सायै रोगात् अतिजीवनं कृतवतां रक्तम् उपयोक्तुं यु एस् खाद्य एवम् औषधायोगेन अनुज्ञा प्रदास्यते। मङ्गलवारे अङ्गीकृते त्वरितप्रक्रमानुसारं रोगान्मुक्तानां 'प्लास्मा' इति रक्तांशानां सदुपयोगाय भिषग्भ्यः अनुज्ञा प्रदत्ता।