भारते प्रथमं कोरोणामरणं कर्णाटके।
बङ्गुलुरु > भारते कोविड् - १९ रोगेण संभूतं प्रथमं मरणं कर्णाटके अभवत्। तत्र कल्बुर्गिप्रदेशीयः ७६ वयस्कः मुहम्मद् हुसैन् सिद्दिखि नामकः कोरोण बाधया एव मृत इति दृढीकृतम्। सौदीराष्ट्रात् ' उम्र' धर्मानुष्ठानानन्तरं फेब्रुवरि २९ दिनाङ्के आसीत्तस्य प्रत्यागमनम्।
मार्च् पञ्चमदिनाङ्कादारभ्य सः कोरोणाबाधितः सन् आतुरालयं प्रविष्टः। गतदिने मृत्युरभवत्। के के तेन सह सम्पर्कमकुर्वन् इति पर्यवेक्षणं कर्णाटकसर्वकारस्य महान् कठिनप्रयत्नः भविष्यति।